(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.15. अध्यायः 015
Mahabharata - Udyoga Parva - Chapter Topics
इन्द्रबोधितशचीवचनात् नहुषेण अगस्त्यादिसप्तर्षीणां स्वशिबिकायां वाहकतया योजनम् ॥ 1 ॥
शचीप्रार्थनया बृहस्पतिना होमेन संतोष्याग्नोरिन्द्रान्वेषणाय प्रेषणम् ॥ 2 ॥
अग्निना बृहस्पतिंप्रति जलवर्जं सर्वत्रान्वेषणेपीन्द्रानधिगमकथनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

शल्य उवाच। 5-15-0x(3390)(32154)
एवमुक्तः स भगवाञ्शच्या तां पुनरब्रवीत्।
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥ 5-15-1(32155)
विवर्द्धितश्च ऋषिभिर्हव्यकव्यैश्च भामिनि ।
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥ 5-15-2(32156)
गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् ।
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे ॥ 5-15-3(32157)
ऋषियानेन दिव्येन मामुपैहि जगत्पते ।
एवं तव वशे प्रीता भविष्यामीति तं वद ॥ 5-15-4(32158)
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा ।
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥ 5-15-5(32159)
नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत् ।
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥ 5-15-6(32160)
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि ।
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ॥ 5-15-7(32161)
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः।
सत्येन वै पशे देवि करिष्ये वचनं तव ॥ 5-15-8(32162)
इन्द्राण्युवाच। 5-15-9x(3391)
यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते।
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिम ॥ 5-15-9(32163)
कार्यं च हृदि मे यत्तद्देवराजावधारय।
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ॥ 5-15-10(32164)
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव।
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ॥ 5-15-11(32165)
इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप ।
यन्न विष्णोर्न रुद्रस्य न सुराणां न रक्षसाम् ॥ 5-15-12(32166)
वहन्तु त्वां महाभागा ऋषयः सङ्गता विभो।
सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥ 5-15-13(32167)
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि ।
सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात् ॥ 5-15-14(32168)
न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान् । 5-15-15(32169)
शल्य उवाच।
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल।
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥ 5-15-15x(3392)
नहुष उवाच। 5-15-16x(3393)
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि।
दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने ॥ 5-15-16(32170)
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ॥ 5-15-17(32171)
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्।
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः ॥ 5-15-18(32172)
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते।
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥ 5-15-19(32173)
` अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः।
मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः ।'
तस्मात्ते वचनं देवि करिष्यामि न संशयः ॥ 5-15-20(32174)
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ।
पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि ॥ 5-15-21(32175)
शल्य उवाच। 5-15-22x(3394)
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् । 5-15-22b` अथ संचिन्त्य नहुषो बलवीर्येण भारत ॥ 5-15-22(32176)
विसृज्य सुप्रतीकं च नागमैरावतं तथा।
हंसयुक्तं विमानं च हरियुक्तं तथा रथम् ॥ 5-15-23(32177)
स तु दर्पेण महता परिभूय महामुनीन्।'
विमाने योजयित्वा च ऋषीन्नियमामास्थितान् ॥ 5-15-24(32178)
अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च।
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥ 5-15-25(32179)
नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत्।
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ॥ 5-15-26(32180)
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्।
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् ॥ 5-15-27(32181)
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ।
न ह्येष स्थास्यति चिरं गत एष नराधमः ॥ 5-15-28(32182)
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ।
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ॥ 5-15-29(32183)
शक्रं चाधिगमिष्यामि माभैस्त्वं भद्रमस्तु ते।
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः ॥ 5-15-30(32184)
बृहस्पतिर्महातेजा देवराजोपलब्धये।
हुत्वाऽग्निं सोब्रवीद्राजञ्छक्र अन्विष्यतामिति ॥ 5-15-31(32185)
तस्माच्च भगवान्देवः स्वयमेव हुताशनः ।
स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत॥ 5-15-32(32186)
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च।
पृथिवीं चान्तरिक्षं च विचित्याथ मनोगतिः।
निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ॥ 5-15-33(32187)
अग्निरुवाच। 5-15-34x(3395)
बृहस्पते न पश्यामि देवराजमिह क्वचित्।
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ॥ 5-15-34(32188)
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते।
तमब्रवीद्देवगुरुरपो विश महाद्युते ॥ 5-15-35(32189)
अग्निरुवाच। 5-15-36x(3396)
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति।
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेस्तु महाद्युते ॥ 5-15-36(32190)
अद्य्भोऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ॥ 5-15-37(32191)

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि पञ्चदशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-15-21 मां वक्ष्यन्ति मम वहनं करिष्यन्ति ॥ 21 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.